top of page
कामाक्ष्यष्टकम् | Kamakshyashtakam
कामाक्ष्यष्टकम्
श्रीकाञ्चीपुरवासिनीं भगवतीं श्रीचक्रमध्ये स्थितां
कल्याणीं कमनीयचारुमकुटां कौसुम्भवस्त्रान्विताम् ।
श्रीवाणीशचिपूजिताङ्घ्रियुगलां चारुस्मितां सुप्रभां
कामाक्क्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥ १॥
मालामौक्तिककन्धरां शशिमुखीं शम्भुप्रियां सुन्दरीं
शर्वाणीं शरचापमण्डितकरां शीतांशुबिम्बाननाम् ।
वीणागानविनोदकेलिरसिकां विद्युत्प्रभाभासुरां
कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥ २॥
श्यामां चारुनितम्बिनीं गुरुभुजां चन्द्रावतंसां शिवां
शर्वालिङ्गितनीलचारुवपुषीं शान्तां प्रवालाधराम् ।
बालां बालतमालकान्तिरुचिरां बालार्कबिम्बोज्ज्वलां
कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥ ३॥
लीलाकल्पितजीवकोटिनिवहां चिद्रूपिणीं शङ्करीं
ब्रह्माणीं भवरोगतापशमनीं…bottom of page
