top of page
कामाख्यदोषविवरणम् (हरिदासविरचितम्) | Kamakhyadoshavivaranam
कामाख्यदोषविवरणम्
दोषेषु प्रथमः कामो विविच्य विनिर ूप्यते ।
यस्मिहत्पद्यते तस्य नाशकः सर्वथा मतः ॥ १॥
विषयावेशहेतुत्वाद्विक्षेपोत्पत्तिकारणम् ।
रजोगुणसमुत्पन्नो रजःप्रक्षेपको मुखे ॥ २॥
ब्रह्मावेशविरोधी च सद्बुद्धेर्बाधको मतः ।
सत्कर्मनाशकः सर्वप्राकृतसक्तिसाधकः ॥ ३॥
चित्ताशुद्धिनिदानत्वाच्चिदुत्पत्तौ च बाधकः ।
भक्तिमार्गमहाद्वेष्टा वैराग्याभावसाधनात् ॥ ४॥
सर्वत्रापरितोषश्चानेन लोभसमुद्भवात् ।
यथाकथञ्चित् साम्मुख्येन्द्रियवैमुख्यकारकः ॥ ५॥
कामलोभौ हरिप्राप्तिप्रतिबन्धकपर्वतौ ।
तावुल्लङ्घ्य न शक्रोति गन्तुं कृष्णान्तिकं जनः ॥ ६॥
संसारमोहहेतुत्वान्मनोदूषणसाधनम् ।
अतः सेवाविरोधी च यतः सा…bottom of page
