top of page
हेमकामाक्षीदण्डकम् | Hem Kamakshi dandakam
श्रीहेमकामाक्षीदण्डकम्
ओंकारात्मक-भासि-रूप्यवलये संशोभि हेमं म हः
बिभ्रत्केलिशुकं त्रयीकलगिरं दक्षेण हस्तेन च।
वामे लंबकरं त्रिभङ्गि-सुभगं दीनार्तनम्रत्पदं
स्वान्ते दीव्यतु मे कटाक्ष-शुभदं मन्दस्मितोदारकम् ॥
दक्षिणे कामजिद्यस्याः चूडायां कामवल्लभः।
वासः कामायुधस्याधः कामाक्षीं तां नमाम्यहम् ॥
कामान्धा तिलकं यस्याः काममाली च पुत्रकः।
कामान्धोपम-वाणीं तां कामाक्षीं प्रणमाम्यहम् ॥
गाङ्गमाता तु या देवी गाङ्गमाला-विराजिता।
गां गता रक्षितुं मर्त्यान् गाङ्गदेहां नमामि ताम् ॥
जयैकाम्रेश्वरार्धाङ्गि जय तञ्जा-विलासिनि।
जय बङ…bottom of page
