top of page
कौटिल्य अर्थशास्त्रम् (मूल) | Kautilya Arthashastram - 02
कौटिलीय अर्थशास्त्रम्
01.1.01 पृथिव्या लाभे पालने च यावन्त्यर्थशास्त्राणि पूर्वाचार्यैः प्रस्तावितानि प्रायशस्तानि संहृत्यकमिदमर्थशास्त्रं कृतम्
01.1.02 तस्यायं प्रकरणाधिकरणसमुद्देशः
01.1.03a विद्यासमुद्देशः, वृद्धसमुद्देशः, इन्द्रियजयः, अमात्य उत्पत्तिः, मन्त्रिपुरोहित उत्पत्तिः, उपधाभिः शौचाशौचज्ञानं अमात्यानां, -
01.1.03b गूढपुरुषप्रणिधिः, स्वविषये कृत्याकृत्यपक्षरक्षणं, परविषये कृत्याकृत्यपक्ष उपग्रहः,
01.1.03ch मन्त्राधिकारः, दूतप्रणिधिः, राजपुत्ररक्षणं, अपरुद्धवृत्तं, अपरुद्धे वृत्तिः, राजप्रणिधिः, निशान्तप्रणिधिः, आत्मरक्षितकं, , इति विनयाधिकारिकं प्रथमं अधिकरणम्
01.1.04a जनपदनिवेशः, भूमिच्छिद्रापिधानं, दुर्गविधानं, दुर्गनिवेशः,…bottom of page
