top of page
कौटिल्य अर्थशास्त्रम् (मूल) | Kautilya Arthashastram - 04
Chapt . Rescission of sale and purchase
03.15.01 विक्रीय पण्यं अप्रयच्छतो द्वादशपणो दण्डः, अन्यत्र दोष उपनिपाताविषह्येभ्यः
03.15.02 पण्यदोषो दोषः
03.15.03 राजचोराग्न्य्।उदकबाध उपनिपातः
03.15.04 बहुगुणहीनं आर्तकृतं वाऽविषह्यम्
03.15.05 वैदेहकानां एकरात्रं अनुशयः, कर्षकाणां त्रिरात्रं, गोरक्षकाणां पञ्चरात्रम्
03.15.06 व्यामिश्राणां उत्तमानां च वर्णानां वृत्तिविक्रये सप्तरात्रम्
03.15.07 आतिपातिकानां पण्यानां अन्यत्राविक्रेयम् इत्यवरोधेनानुशयो देयः
03.15.08 तस्यातिक्रमे चतुर्विंशतिपणो दण्डः, पण्यदशभागो वा
03.15.09 क्रीत्वा पण्यं अप्रतिगृह्णतो द्वादशपणो दण्ड…