top of page

कौटिल्य अर्थशास्त्रम् (मूल) | Kautilya Arthashastram - 07

Chapt .   युद्धभूमयः - पत्त्य्ऽश्वरथहस्तिकर्माणि
10.4.01 स्वभूमिः पत्त्य्ऽश्वरथद्विपानां इष्टा युद्धे निवेशे च
10.4.02 धान्वनवननिम्नस्थलयोधिनां खनकाकाशदिवारात्रियोधिनां च पुरुषाणां नादेयपार्वतानूपसारसानां च हस्तिनां अश्वानां च यथास्वं इष्टा युद्धभूमयः कालाश्च
10.4.03 समा स्थिराऽभिकाशा निरुत्खातिन्यचक्रखुराऽनक्षग्राहिण्यवृक्षगुल्मव्रततीस्तम्भकेदारश्वभ्रवल्मीकसिकतापङ्कभङ्गुरा दरणहीना च रथभूमिः, हस्त्य्ऽश्वयोर्मनुष्याणां च समे विषमे हिता युद्धे निवेशे च
10.4.04 अण्व्ऽश्मवृक्षा ह्रस्वलङ्घनीयश्वभ्रा मन्ददरणदोषा चाश्वभूमिः
10.4.05 स्थूलस्थाण्वश्मवृक्षव्रततीवल्मीकगुल्मा पदातिभूमिः
10.4.06 गम्यशैलनिम्नविषमा मर्दनीयवृक्षा छेदनीयव्रतती पङ्कभङ्गुरा दरणहीना…
bottom of page