top of page
महालक्ष्मीदण्डकः (केशवसूरिकृतः) | MahaLakshmi dandakah
महालक्ष्मीदण्डकः
मन्दारमालाञ्चितकेशभारां मन्दाकिनीनिर्झरगौरहाराम् ।
वृन्दारिकावन्दितकीर्तिपारां वन्दामहे मां कृतसद्विहाराम् ॥ १॥
जय दुग्धाब्धितनये जय नारायणप्रिये ।
जय हैरण्यवलये जय वेलापुराश्रये ॥ २॥
जय जय जनयित्रि वेलापुराभ्यन्तरप्रस्फुरत्स्फार-
सौधाञ्चितोदारसालान्तरागारखेलन्मुरारातिपार्श्वस्थिते ।
क्लृप्तविश्वस्थिते ।
चित्ररत्नज्वलद्रत्नसानूपमप्रत्नसौवर्ण
कोटीरकान्तिच्छटाचित्रिताच्छाम्बरे । देवि दिव्याम्बरे ।
फुल्लसन्मल्लिकामालिकाप्रोल्लसन्नीलभोगीशभोगप्रतीकाश-
वेण्यर्धचन्द्रालिके । वल्गुनीलालके । केशसौरभ्यलोभ-
भ्रमत्स्थूलजम्बूफलाभालिमालासमाकर्षणेहोत्पतन्मौलि-
वैडूर्यसन्दर्श नत्रस्तलीलाशुकालोकजातस्मिते । देवजातस्तुते ।
ईश्वरीशेखरीभूतसोमस्मयोत्सादनाभ्युत्सुकत्वच्छिरःसंश्रित-
प्राप्तनित्योदयब्रघ्नशङ्काकरस्वर्णकोटीरसन्दर्शनानन्दितस्वीय-
ताताङ्ककारोहणाभीप्सुलब्धान्तिकार्कात्म-
जानिर्झराशङ्कनीयान्तकस्तूरिकाचित्रके । वार्धिराट्पुत्रिके ।
मान्मथश्यामलेक्ष्वात्मधन्वाकृतिस्निग्धमुग्धाद्भुत-
भ्रूलता चालनारब्धलोकालिनिर्माणरक्षिण्यसंहारलीलेऽमले ।
सर्वदे कोमले । स्वप्रभान्यक्कृते स्वानुगश्रुत्यधःकारिणीकान्ति-
नीलोत्पले बाधितुं वागताभ्यां श्रवःसन्निधिं लोचनाभ्यां
भृशं भूषिते ।…bottom of page
