top of page

महालक्ष्मीसहस्रनामस्तोत्रम् अथवा कमलासहस्रनामस्तोत्रम् | MahaLaxmi Sahasranama stotram

श्रीमहालक्ष्मीसहस्रनामस्तोत्रम् अथवा कमलासहस्रनामस्तोत्रम् 

ॐ तामाह्वयामि सुभगां लक्ष्मीं त्रैलोक्यपूजिताम् ।
एह्येहि देवि पद्माक्षि पद्माकरकृतालये ॥ १॥

आगच्छागच्छ वरदे पश्य मां स्वेन चक्षुषा ।
आयाह्यायाहि धर्मार्थकाममोक्षमये शुभे ॥ २॥

एवंविधैः स्तुतिपदैः सत्यैः सत्यार्थसंस्तुता ।
कनीयसी महाभागा चन्द्रेण परमात्मना ॥ ३॥

निशाकरश्च सा देवी भ्रातरौ द्वौ पयोनिधेः ।
उत्पन्नमात्रौ तावास्तां शिवकेशवसंश्रितौ ॥ ४॥

सनत्कुमारस्तमृषिं समाभाष्य पुरातनम् ।
प्रोक्तवानितिहासं तु लक्ष्म्याः स्तोत्रमनुत्तमम् ॥…
bottom of page