top of page
महालक्ष्मीस्तवः (अनन्तरामदीक्षितेन विरचितः) | MahaLakshmi stavah
श्रीमहालक्ष्मीस्तवः
मयि कुरु मङ्गलमम्बुजवासिनि मङ्गलदायिनि मञ्जुगते
मतिमलहारिणि मञ्जुळभाषिणि मन्मथतातविनोदरते ।
मुनिजनपालिनि मौक्तिकमालिनि सद्गुणवर्षिणि साधुनुते
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥ १॥
कलिमलहारिणि कामितदायिनि कान्तविधायिनि कान्तहिते
कमलदलोपम कम्रपदद्वय शिञ्जितनूपुर नादयुते ।
कमलसुमालिनि काञ्चनहारिणि लोकसुखैषिणि कामिनुते
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥ २॥
कुवलयमोचकनेत्रकृपापरिपालित संश्रितभक्तकुले
गुरुवर शङ्करसन्नुतितुष्टिसुवृष्टसुहेममयामलके ।
रविकुलवारिधिचन्द्रसमादरमन्त्रगृहीतसुपाणितले
जय जय हे मधुसूदनमो…bottom of page
