top of page

महालक्ष्मीस्तवकवचपूजा (ब्रह्मवैवर्तपुराणान्तर्गतम्) | MahaLakshmi stava kavacha puja

श्रीमहालक्ष्मीस्तवकवचपूजा 

श्रीगणेशाय नमः ।
नारद उवाच ।
आविर्भूय हरिस्तस्मै किं स्तोत्रं कवचं ददौ ।
महालक्ष्म्याश्च लक्ष्मीशस्तन्मे ब्रूहि तपोधन ॥ १॥

नारायण उवाच ।
पुष्करे च तपस्तप्त्वा विरराम सुरेश्वरः ।
आविर्बभूव तत्रैव क्लिष्टं दृष्ट्वा हरिः स्वयम् ॥ २॥

तमुवाच हृषीकेशो वरं वृणु यथेप्सितम् ।
स च वव्रे वरं लक्ष्मीमीशस्तस्मै ददौ मुदा ॥ ३॥

वरं दत्त्वा हृषीकेशः प्रवक्तुमुपचक्रमे ।
हितं सत्यं च…
bottom of page