top of page

महालक्ष्मीस्तवम् अथवा वैभवलक्ष्मी अर्चना | Vaibhava Lakshmi archana

श्रीवैभवलक्ष्मी अर्चना अथवा महालक्ष्मीस्तवम् 
श्रीपार्वति सरस्वति महालक्ष्मि नमोऽस्तु ते ।
विष्णुप्रिये महामाये महालक्ष्मि नमोऽस्तु ते ।
कमले विमले देवि महालक्ष्मि नमोऽस्तु ते ।
कारुण्यनिलये देवि महालक्ष्मि नमोऽस्तु ते ।
दारिद्र्यदुःखशमनि महालक्ष्मि नमोऽस्तु ते ।
श्रीदेवि नित्यकल्याणि महालक्ष्मि नमोऽस्तु ते ।
समुद्रतनये देवि महालक्ष्मि नमोऽस्तु ते ।
राजलक्ष्मि राज्यलक्ष्मि महालक्ष्मि नमोऽस्तु ते ।
वीरलक्ष्मि विश्वलक्ष्मि महालक्ष्मि नमोऽस्तु ते ।
मूकहन्त्रि…