top of page
महालक्ष्मीस्तुतिः २ महालक्ष्म्यष्टोत्तरशतनामस्तोत्रम् | MahaLakshmi stutih 2
श्रीमहालक्ष्मीस्तुतिः २
महालक्ष्म्यष्टोत्तरशतनामस्तोत्रम्
ॐ विघ्नेश्वरमहाभाग सर्वलोकनमस्कृत ।
मयाऽऽरब्धमिदं कर्म निर्विघ्नं कुरु सर्वदा ॥
शुद्धलक्ष्म्यै बुद्धिलक्ष्म्यै वरलक्ष्म्यै नमो नमः ।
नमस्ते सौभाग्यलक्ष्म्यै महालक्ष्म्यै नमो नमः ॥ १॥
वचोलक्ष्म्यै काव्यलक्ष्म्यै गानलक्ष्म्यै नमो नमः ।
नमस्ते शृङ्गारलक्ष्म्यै महालक्ष्म्यै नमो नमः ॥ २॥
धनलक्ष्म्यै धान्यलक्ष्म्यै धरालक्ष्म्यै नमो नमः ।
नमस्तेऽष्टैश्वर्यलक्ष्म्यै महालक्ष्म्यै नमो नमः ॥ ३॥
गृहलक्ष्म्यै ग्रामलक्ष्म्यै राज्यलक्ष्म्यै नमो नमः ।
नमस्ते…