top of page

महालक्ष्मीस्तोत्रम् (विष्णुपुराणान्तर्गतम्) | MahaLakshmi stotram from Vishnu Purana

श्रीमहालक्ष्मीस्तोत्रम् विष्णुपुराणान्तर्गतम् 

श्रीगणेशाय नमः ।
श्रीपराशर उवाच
सिंहासनगतः शक्रस्सम्प्राप्य त्रिदिवं पुनः ।
देवराज्ये स्थितो देवीं तुष्टावाब्जकरां ततः ॥ १॥

इन्द्र उवाच
नमस्ये सर्वलोकानां जननीमब्जसम्भवाम् । var  सर्वभूतानां
श्रियमुन्निद्रपद्माक्षीं विष्णुवक्षःस्थलस्थिताम् ॥ २॥

पद्मालयां पद्मकरां पद्मपत्रनिभेक्षणाम्
वन्दे पद्ममुखीं देवीं पद्मनाभप्रियामहम् ॥ ३॥

त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनी ।
सन्ध्या रात्रिः प्रभा भूतिर्मेधा श्रद्धा सरस्वती ॥ ४॥

यज्ञविद्या महाविद्या गुह्यविद्या च शोभन…
bottom of page