top of page
महालक्ष्मीस्तोत्रम् (श्रीधरस्वामीविरचितम् सर्वसौभाग्यरूपा त्वं सर्वसम्पत्स्वरूपिणी) | Mahalakshmi Stotram
श्रीमहालक्ष्मीस्तोत्रम्
सर्वसौभाग्यरूपा त्वं सर्वसम्पत्स्वरूपिणी ।
सर्वकल्याणरूपा त्वं महालक्ष्मि नमोऽस्तु ते ॥ १॥
जनश्रीस्त्वं वनश्रीस्त्वं मङ्गलश्रीः स्वभावतः ।
ब्रह्मश्रीश्च मोक्षश्रीश्च महालक्ष्मि नमोऽस्तु ते ॥ २॥
शान्तिस्तुष्टिस्तथापुष्टिर्मेधा कीर्तिश्च सन्मतिः ।
दैवीसम्पत्स्वरूपा त्वं महालक्ष्मि नमोऽस्तु ते ॥ ३॥
मोक्षसाधनसम्पत्तिरायुरारोग्यसंसृतिः ।
सर्वैश्वर्यस्वरूपा त्वं महालक्ष्मि नमोऽस्तु ते ॥ ४॥
भक्तियोगा ब्रह्मनिष्ठात्वमेवैकाखिलेश्वरी ।
तदैव ब्रह्मरूपा च महालक्ष्मि नमोऽस्तु ते ॥ ५॥
सच्चिदानन्दरूपा त्वं जगन्माता जगत्पिता ।
विष्णुब्रह्ममहेशास्त्वं…bottom of page
