top of page
रामनाथस्तोत्रम् (लक्ष्मणकृतं स्कन्दपुराणान्तर्गतम्) | Lakshmana krritam Ramanatha stotram
लक्ष्मणकृतं रामनाथस्तोत्रम्
लक्ष्मण उवाच ।
नमस्ते रामनाथाय त्रिपुरघ्नाय शम्भवे ।
पार्वतीजीवितेशाय गणेशस्कन्दसूनवे ॥ १३॥
नमस्ते सूर्यचद्राग्निलोचनाय कपर्दिने ।
नमः शिवाय सोमाय मार्कण्डेयभयच्छिदे ॥ १४॥
नमः सर्वप्रपञ्चस्य सृष्टिस्थित्यन्तहेतवे ।
नम उग्राय भीमाय महादेवाय साक्षिणे ॥ १५॥
सर्वज्ञाय वरेण्याय वरदाय वराय ते ।
श्रीकण्ठाय नमस्तुभ्यं पञ्चपातकभेदिने ॥ १६॥
नमस्तेऽस्तु परानन्दसत्यविज्ञानरूपिणे ।
नमस्ते भवरोगघ्न स्नायूनां पतये नमः ॥ १७॥
पतये तस्कराणां ते वनानां पतये…bottom of page
