top of page
लक्ष्मीनृसिंहसुप्रभातविंशतिः (महादेवविरचिता) | Lakshmi Nrusimha mhasuprabhata vishantih
लक्ष्मीनृसिंहसुप्रभातविंशतिः
पराङ्कुशमुनि विरचिता
अम्ब प्रसन्नशरदिन्दुमुखि प्रपन्न-
पङ्कच्छटादलनपादसरोजयुग्मे ।
लक्ष्मीनृसिंहपरिरम्भणरम्यगात्रे
लक्ष्मीनृसिंहदयिते तव सुप्रभातम् ॥ १॥
भानुः स्वभानुपरिरम्भणजृम्भदब्ज-
पालिर्वलारिहरिदङ्गणमेति दीव्यन् ।
शश्वद् विनश्यति च नैशमिदं तमिस्रं
लक्ष्मीनृसिंह भगवन् तव सुप्रभातम् ॥ २॥
यः पद्मिनीं स्वविरहेण कलङ्किसङ्ग-
भीत्येव सङ्कुचितनालकराब्जवक्त्राम् ।
आश्वासयन्नुदयमेति मुहुः कराग्रै-
र्लक्ष्मीनृसिंह भगवन् तव सुप्रभातम् ॥ ३॥
दोषाकरो निशि पयोजसुहृद्वियोग-
दूरां स्पृशन् निजकरैर्नलिनीं विभाते ।
…