top of page
लक्ष्मीलहरी (पण्डितराजश्रीजगन्नाथविरचिता) | Lakshmi Lahari
श्रीलक्ष्मीलहरी
श्रीगणेशाय नमः ।
समुन्मीलन्नीलाम्बुजनिकरनीराजितरुचाम्-
अपाङ्गानां भङ्गैरमृतलहरीश्रेणिमसृणैः ।
ह्रिया हीनं दीनं भृशमुदरलीनं करुणया
हरिश्यामा सा मामवतु जडसामाजिकमपि ॥ १॥
समुन्मीलत्वन्तःकरणकरुणोद्गारचतुरः
करिप्राणत्राणप्रणयिनि दृगन्तस्तव मयि ।
यमासाद्योन्माद्यद्द्विपनियुतगण्डस्थलगलन्-
मदक्लिन्नद्वारो भवति सुखसारो नरपतिः ॥ २॥
उरस्यस्य भ्रश्यत्कबरभरनिर्यत्सुमनसः
पतन्ति स्वर्बालाः स्मरशरपराधीनमनसः ।
सुरास्तं गायन्ति स्फुरिततनुगङ्गाधरमुखास्-
तवायं दृक्पातो यदुपरि कृपातो विलसति ॥ ३॥
समीपे सङ्गीतस्वरमधुरभङ्गी मृगदृशां
विदूरे दानान्धद्विरदकलभोद्दामनिनदः ।
बहिर्द्वारे तेषां भवति हयहेषाकलकलो
दृगेषा ते येषामुपरि कमले देवि…bottom of page
