top of page

लक्ष्मीवरप्रदानवर्णनम् शैलक्षेत्रे (शिवरहस्यान्तर्गतम्) | Lakshmi varapradana varnanam shailakshetre

श्रीशैलक्षेत्रे लक्ष्मीवरप्रदानवर्णनम् 

(शिवगौरीसंवादे)
ईश्वरः -
श्रीशैलेशोऽहमीशानि तत्तुङ्गशिखरे स्थितः ।
ब्रह्मविष्ण्वादिभिर्देवैर्गणेन्द्रैरपि सेवितः ॥ ५०॥

तत्र मां नियमाद्दृष्ट्वा सर्वपापैः प्रमुच्यते ।
पुरा श्रिया तपस्तप्तं तत् श‍ृणुष्वाम्बिके मुदा ॥ ५१॥

यदा‍ऽनङ्गो मया दग्धः श्रियः पुत्रो महेश्वरि ।
तेन दुःखेन सन्तप्ता भस्मरुद्राक्षभूषणा ॥ ५२॥

पञ्चाग्निनिरता देवी पञ्चाक्षरपरायणा ।
लक्ष्मीः सन्तपदत्युग्रं वर्षाणां शतकं शिवे ॥ ५३॥ (तताप तप अत्युग्रं)

दत्तं च दर्शनं देवि तस्याः कालान्तरे…