top of page

लक्ष्मीसहस्रनामस्तोत्रम् १ | Lakshmi sahasra nama stotram 1

श्रीलक्ष्मीसहस्रनामस्तोत्रम् १ 

अस्य श्रीमहालक्ष्मीसहस्रनामस्तोत्रमहामन्त्रस्य
श्रीमहाविष्णुर्भगवान् ऋषिः, अनुष्टुप्छन्दः,
श्रीमहालक्ष्मीः देवता । श्रीं बीजम् ह्रीं शक्तिः, ह्रैं कीलकम् ।
श्रीमहालक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः ॥

पद्मानने पद्मकरे सर्वलोकैकपूजिते ।
सान्निध्यं कुरु मे चित्ते विष्णुवक्षःस्थलस्थिते ॥ १॥

भगवद्दक्षिणे पार्श्वे श्रियं देवीमवस्थिताम् ।
ईश्वरीं सर्वभूतानां जननीं सर्वदेहिनाम् ॥ २॥

चारुस्मितां चारुदतीं चारुनेत्राननभ्रुवम् ।
सुकपोलां सुकर्णाग्रन्यस्तमौक्तिककुण्डलाम् ॥ ३॥

सुकेशां चारुबिम्बोष्ठीं रत्नतुङ्गघनस्तनीम् ।
अलकाग्रैरलिनिभैरलङ्कृतमुखाम्बुजम् ॥ ४॥

लसत्कनकसङ्काशां पीनसुन्दरकन्धराम् ।
निष्ककण्ठीं स्तनालम्बिमुक्ताहारविराजिताम्…
bottom of page