top of page

लक्ष्मीसहस्रनामस्तोत्रम् (स्कन्दपुराणान्तर्गतम्) | Lakshmi sahasra nama stotram from Skanda purana

श्रीलक्ष्मीसहस्रनामस्तोत्रम् 

श्रीस्कन्दपुराणे सनत्कुमारसंहितायाम् ।

श्रीगणेशाय नमः ।

हरिः ॐ ।
नाम्नां साष्टसहस्रञ्च ब्रूहि गार्ग्य महामते ।
महालक्ष्म्या महादेव्या भुक्तिमुक्त्यर्थसिद्धये ॥ १॥

गार्ग्य उवाच-
सनत्कुमारमासीनं द्वादशादित्यसन्निभम् ।
अपृच्छन्योगिनो भक्त्या योगिनामर्थसिद्धये ॥ २॥

सर्वलौकिककर्मभ्यो विमुक्तानां हिताय वै ।
भुक्तिमुक्तिप्रदं जप्यमनुब्रूही दयानिधे ॥ ३॥

सनत्कुमार भगवन्सर्वज्ञोऽसि विशेषतः ।
आस्तिक्यसिद्धये नॄणां क्षिप्रधर्मार्थसाधनम् ॥ ४॥

खिद्यन्ति मानवास्सर्वे धनाभावेन केवलम् ।
सिद्ध्यन्ति धनिनोऽन्यस्य नैव धर्मार्थकामनाः ॥ ५॥

दारिद्र्यध्वंसिनी नाम केन…