top of page
लक्ष्मीसुप्रभातम् | Shri Laxmi Suprabhatam
श्रीलक्ष्मीसुप्रभातम्
मातः प्रसन्नवदनाम्बुजनिर्जिताब्जे
क्षीराब्धिजे सकललोकपवित्रमूर्ते ।
आर्तप्रपन्नजनवन्दितपादपद्मे
श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ १॥
सद्योविकासि कुसुमेषु सुगन्धमत्ताः
गायन्ति मातरमितं भ्रमरा यशस्ते ।
तन्मञ्जुनादपरिबोधितदिव्यदेवि
श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ २॥
स्नात्वामलः सुरगजः सुरदीर्घिकायां
शुण्डोद्धृताब्जविलसद्वदनेन तूर्णम् ।
सन्तिष्ठते गृहमुखे तव भक्तवर्यः
श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ ३॥
शोभां तवैव वदनस्य सदा नवीनां
सम्प्राप्य भानुरिह लोकतमःप्रहन्ता ।
प्राचीं दिशं भजति सोऽपि तवैव भक्तः
श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ ४॥
पद्मानि…