top of page

लक्ष्मीस्तुतिः २ (आपटीकरविरचिता) | Lakshmi stutih 2

श्रीलक्ष्मीस्तुतिः २ 
     (पृथ्वी)
पयोधितनये रमेऽमतसहोदर त्वां भजे
     दयामयि सदा दयां कुरु मयि त्वमेतावती ।
कराम्बुजनिवासिनी भव सदा ममोद्धारिणी
     मदीयसदने सदा निवस पद्मनाभप्रिये ॥ १॥

सरोजवदनाम्बुजे सरसिजासनाधिष्ठिते
     सरोरुहपदाम्बुजे सरसिजोरुपद्मासने ।
सरोजनयने सदा सरसिजप्रिये देवते
     मदन्तरनिवासिनी भव सदा जगन्मोहिनी ॥ २॥

नमामि हरिवल्लभां सकलभाग्यदामिन्दिरां
     भजामि भवतारिणीं सकलभक्तकामप्रदाम् ।
स्तवीमि मनसा तथा स्तवनगायनैस्त्वां सदा
     भवामि …
bottom of page