top of page
लक्ष्मीस्तोत्रम् २ ((वाधूल) राघवकविकृतं श्रिया युक्तः श्रीमान् स्थितिजनिलयादीन् कलयते) | Lakshmi stotram 2
लक्ष्मीस्तोत्रम्
श्रिया युक्तः श्रीमान् स्थितिजनिलयादीन् कलयते
जगत्या नैवं चेत् स्वमपि न च पुष्णात्यशरणः ।
अतस्त्वां तत्तादृग्दुरधिगमनिःसीमविभवां
भजामो रुद्राणीपरिचितपदाम्भोजयुगलीम् ॥ १॥
अयि श्रीस्त्वं पूर्वं जनकतनयीभूय जगतां
प्रभो रामस्याभूः प्रियसहचरी कोसलपतेः ।
तथापुष्यः कृष्णं नतजननि रुक्मीन्द्रतनया
विना त्वां गोविन्दः प्रभवति जगत्यां क्व च न वा ॥ २॥
त्वया दृष्टः शम्भुस्त्रिपुरमथनायालमरुण-
क्षपानाथावाज्ञां शिरसि निदधानावुद…bottom of page
