top of page
लक्ष्मीहयग्रीवपञ्चरत्नम् | Lakshmi hayagriva pancha ratnam
श्रीलक्ष्मीहयग्रीवपञ्चरत्नम्
ज्ञानानन्दामलात्मा कलिकलुषमहातूलवातूलनामा
सीमातीतात्मभूमा मम हयवदना देवता धावितारिः ।
याता श्वेताब्जमध्यं प्रविमलकमलस्रग्धरादुग्धराशिः
स्मेरा सा राजराजप्रभृतिनुतिपदं सम्पदं संविधत्ताम् ॥ १॥
ताराताराधिनाथस्फटिकमणिसुधाहीरहाराभिरामा
रामा रत्नाब्धिकन्याकुचलिकुचपरीरम्भसंरम्भधन्या ।
मान्याऽनन्यार्हदास्यप्रणतततिपरित्राणसत्नात्तदीक्षा
दक्षा साक्षात्कृतैषा सपदि हयमुखी देवता साऽवतान्नः ॥ २॥
अन्तर्ध्वान्तस्य कल्यं निगमहृदसुरध्वंसनैकान्तकल्यं
कल्याणानां गुणानां जलधिमभिनमद्बान्धवं सैन्धवास्यम् ।
शुभ्रांशु भ्राजमानं दधतमरिदरौ पुस्तकं हस्तकञ्जैः
भद्रां व्याख्यानमुद्रामपि हृदि शरणं याम्युदारं सदारम् ॥ ३॥
वन्द…bottom of page
