top of page

लक्ष्मीहयग्रीवमङ्गलम् | Lakshmi hayagrivamangalam

श्रीलक्ष्मीहयग्रीवमङ्गलम् 

अशेषवेदरूपाय यथार्थज्ञानदायिने ।
विद्यालक्ष्मीसमेताय वाजिवक्त्राय मङ्गलम् ॥ १॥

पालने ज्ञानदाने च प्रवणादनिरुद्धतः ।
आविर्भूताय वेधोऽर्थमश्वग्रीवाय मङ्गलम् ॥ २॥

स्वनाभिपद्मजायादौ स्वोपदिष्टाः श्रुतीः समाः ।
स्थिरं पुनरदाद्योऽस्मै तुरङ्गास्याय मङ्गलम् ॥ ३॥

मध्वाभान्मधुमब्बिन्दोः कैटभं कठिनादपि ।
कृत्वाऽरी शिक्षिताजाय गन्धर्वास्याय मङ्गलम् ॥ ४॥

पादव्यवस्था यत्रार्थवशेनैव मृगात्मने ।
यजुषे यज्ञरूपाय हयग्रीवाय मङ्गलम् ॥ ५॥

यदुद्गीथस्वरत्रस्तौ दैत्यौ वेदापहारिणौ ।
प्रणवोद्गीथरूपाय पुण्यह्रेषाय मङ्गलम् ॥ ६॥

वामपुस्तकहस्तस्वभुजाश्लिष्टरमात्मने ।
व्याख्यामुद्रान्यहस्ताय वाजिवक्त्राय…
bottom of page