top of page

लक्ष्मीहयवदनमन्त्रमालिकास्तुतिः (कस्तूरी रङ्गाचार्यस्वामिविरचितम्) | Lakshmi hayavadana mantra malika stutih

श्रीलक्ष्मीहयवदनमन्त्रमालिकास्तुतिः 
 ॥ श्रीः ॥

श्रियै नमः ।
श्रीलक्ष्मीहयवदनपरब्रह्मणे नमः ।
श्रीगुरुपरम्पराभ्यो नमः ।
अस्मद्गुरुपरम्पराभ्यो नमः ॥

तर्कतीर्थपण्डितरत्नाद्यनेकबिरुदावलीविभूषितानां महीशूरमहानगरीय-
कस्तूरि-रङ्गाचार्यस्वामिपादानां कृतिषु
श्रीलक्ष्मीहयवदनमन्त्रमालिकास्तुतिः ॥

ओमित्यात्मानमन्तर्नियमितकरणैर्ध्यायतां ध्यायतीहां
ओमित्येव स्वयं यः परिहृतविहतिं सिद्धिमाधातुकामः ।
वक्त्रे वाहस्य तस्य स्तुतिमतिमितवाक्प्रस्तुवे तन्मनूद्य-
द्वर्णाद्यस्रग्धराभिर्विमृदितविविधावद्यधाराभिरद्य ॥ १॥

ऋग्भिः शाशस्यमानो महिमजुषि यजुष्येष जोघुष्यमाणः
साम्ना तोष्टूय्यमानो मुनिजनहृदयाब्जेषु राराज्यमानः ।
नीहारोर्वीधराभा प्रतिभटरुचिभिः किञ्च बाभास्यमानः
श्रेयः स्थेयो विधत्तां मम हयवदनाभिख्यया ख्यायमानः ॥ २॥

यच्छत्वच्छाच्छबोधप्रसरमिह स नश्छन्दमात्राप्रक्लृप्ता
चिच्चिच्चित्रप्रपञ्चस्थिरिगतिनियतिर्मुर्ध्नि तुङ्गस्तुरङ्गः ।
भङ्गव्यासङ्गदूरप्रसृमरशरदुद्भूतराकासुधांशु-
ज्योत्नासच्छायविद्याविसरवितरणस्थूललक्षो…
bottom of page