top of page
लक्ष्मीहयवदनरत्नमालास्तोत्रम् (अभिनवरङ्गनाथब्रह्मतन्त्रपरकालमहादेशिकविरचितम्) | Lakshmi hayavadana ratna mala stotram
श्रीलक्ष्मीहयवदनरत्नमालास्तोत्रम्
॥ श्रीः ॥
श्रीलक्ष्मीहयवदनपरब्रह्मणे नमः ।
श्रीमते श्रीकृष्णब्रह्मतन्त्रपरकालयतीन्द्रमहादेशिकाय नमः ।
श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मे नारायणाख्याने हयशिर
उपाख्यानस्य व्याख्याने हयशिरोरत्नभूषणे तद्विवरणदीधितौ च
परिशीलितानां श्रुतीनामर्थस्य सङ्ग्राहक
श्रीलक्ष्मीहयवदनरत्नमालास्तोत्रम् ।
वागीशाख्या श्रुतिस्मृत्युदितशुभतनोवसुदेवस्य मूर्तिः
ज्ञाता यद्वागुपज्ञं भुवि मनुजवेरैर्वाजिवक्त्रप्रसादात् ।
प्रख्याताश्चर्यशक्तिः कविकथकहरिः सर्वतन्त्रस्वतन्त्रः
त्रय्यन्ताचार्यनामा मम हृदि सततं देशिकेन्द्रः स इन्धाम् ॥ १॥
सत्वस्थं नाभिपद्मे विधिमथ दितिजं राजसं तामसं चा-
ब्बिन्द्वोरुत्पा द्य ताभ्यामपहृतमखिलं वेदमादाय धात्रे ।
दत्त्वा द…