top of page
लक्ष्मी आर्यावृत्तम् ((वादिराजकृतम्) | Lakshmi in Aryavrrittam
श्रीलक्ष्मी आर्यावृत्तम्
आर्यावृत्तविचित्र नार्यास्सा जगति सौभगत्वकरी ।
वाय्वा(वार्या)काशाद्यखिला भूर्यावद्धार्यते त्वया देव्या ॥ १॥
उन्मीलय मन्नयने त्वं मान्ये लक्ष्मि लोकमान्यासि ।
चिन्मयसुभगावयवे कर्मकरः स्यामहं च तव कमितुः ॥ २॥
मन्मथजननि मनोज्ञेऽहम्ममतारहितयोगिकुलमहिते ।
दृङ्मलमुन्मूलय मे सम्यक् श्रीकृष्णमूर्तिमीक्षेऽहम् ॥ ३॥
कल्मषखण्डनशीले रम्यकपोले सरोजमुखि सुतनो ।
अम्लानपद्महस्ते निर्मलमच्चक्षुरीक्षतां कृष्णम् ॥ ४॥
पूर्वं त्रिगुणमयी या सर्वं कार्यं करोति या पश्चात् ।
चार्वम्बुजाक्षदीक्षादक्षं मेऽक्षीह सा…bottom of page
