top of page
लक्ष्म्यष्टकम् १ (श्रीयदुपत्याचार्यकृतम् यस्याः कटाक्षमात्रेण ब्रह्मरुद्रेन्द्रपूर्वकाः) | Lakshmyashtakam 1
लक्ष्म्यष्टकम्
यस्याः कटाक्षमात्रेण ब्रह्मरुद्रेन्द्रपूर्वकाः ।
सुराः स्वीयपदान्यापुः सा लक्ष्मीर्मे प्रसीदतु ॥ १॥
याऽनादिकालतो मुक्ता सर्वदोषविवर्जिता ।
अनाद्यनुग्रहाद्विष्णोः सा लक्ष्मी प्रसीदतु ॥ २॥
देशतः कालतश्चैव समव्याप्ता च तेन या ।
तथाऽप्यनुगुणा विष्णोः सा लक्ष्मीर्मे प्रसीदतु ॥ ३॥
ब्रह्मादिभ्योऽधिकं पात्रं केशवानुग्रहस्य या ।
जननी सर्वलोकानां सा लक्ष्मीर्मे प्रसीदतु ॥ ४॥
विश्वोत्पत्तिस्थितिलया यस्या मन्दकटाक्षतः ।
भवन्ति वल्लभा विष्णोः सा लक्ष्मीर्मे प्रसीदतु ॥…bottom of page
