top of page

लक्ष्म्यष्टकम् २ (अहिर्बुध्न्यसंहितान्तर्गतम्) | Lakshmyashtakam 2

श्रीलक्ष्म्यष्टकम् 
महालक्ष्मि भद्रे परव्योम-वासि-
      न्यनन्ते सुषुम्नाह्वये सूरुजुष्टे ।
जये सूरितुष्टे शरण्ये सुकीर्ते
      प्रसादं प्रपन्ने मयि त्वं कुरुष्व ॥ १॥

सति स्वस्ति ते देवि गायत्रि गौरि
      धृवे कामधेनो सुराधीश-वन्द्ये ।
सुनीते सुपूर्णेन्दु-शीते कुमारि
      प्रसादं प्रपन्ने मयि त्वं कुरुष्व ॥ २॥

सदा सिद्ध-गन्धर्व-यक्षेश-विद्या
      धरैः स्तूयमाने रमे राम रामे ।
प्रशस्ते समस्तामरी-सेव्यमाने
      प्रसा…
bottom of page