top of page

लक्ष्म्यष्टोत्तरशतनामस्तोत्रम् १ (प्रकृतिं विकृतिं विद्यां) | Lakshmyashtottara shat nama stotram

श्रीलक्ष्म्यष्टोत्तरशतनामस्तोत्रम् 
श्रीगणेशाय नमः ।
देव्युवाच
देवदेव महादेव त्रिकालज्ञ महेश्वर ।
करुणाकर देवेश भक्तानुग्रहकारक ॥ १॥

अष्टोत्तरशतं लक्ष्म्याः श्रोतुमिच्छामि तत्त्वतः ।
ईश्वर उवाच
देवि साधु महाभागे महाभाग्यप्रदायकम् ।
सर्वैश्वर्यकरं पुण्यं सर्वपापप्रणाशनम् ॥ २॥

सर्वदारिद्र्यशमनं श्रवणाद्भुक्तिमुक्तिदम् ।
राजवश्यकरं दिव्यं गुह्याद्गुह्यतमं परम् ॥ ३॥

दुर्लभं सर्वदेवानां चतुःषष्टिकलास्पदम् ।
पद्मादीनां वरान्तानां विधीनां नित्यदायकम् ॥ ४॥

समस्तदेवसंसेव्यमणिमाद्यष्टसिद्धिदम् ।
किमत्र बहुनोक्तेन देवी प्रत्यक्षदायकम् ॥ ५॥

तव प्रीत्याद्य वक्ष्यामि समाहितमनाः श‍ृणुम्…
bottom of page