top of page

लक्ष्म्यष्टोत्तरशतनामस्तोत्रम् (नारदीयोपपुराणान्तर्गतम्) | Lakshmyashtottara shat Nama stotram

श्रीलक्ष्म्यष्टोत्तरशतनामस्तोत्रम् 

एतत्स्तोत्रं महालक्ष्मीर्महेशना इत्यारब्धस्य
सहस्रनामस्तोत्रस्याङ्गभूतम् ।

ब्रह्मजा ब्रह्मसुखदा ब्रह्मण्या ब्रह्मरूपिणी ।
सुमतिः सुभगा सुन्दा प्रयतिर्नियतिर्यतिः ॥ १॥

सर्वप्राणस्वरूपा च सर्वेन्द्रियसुखप्रदा ।
संविन्मयी सदाचारा सदातुष्टा सदानता ॥ २॥

कौमुदी कुमुदानन्दा कुः कुत्सिततमोहरी ।
हृदयार्तिहरी हारशोभिनी हानिवारिणी ॥ ३॥

सम्भाज्या संविभज्याऽऽज्ञा ज्यायसी जनिहारिणी ।
महाक्रोधा महातर्षा महर्षिजनसेविता ॥ ४॥

कैटभारिप्रिया कीर्तिः कीर्तिता कैतवोज्झिता ।
कौमुदी शीतलमनाः कौसल्यासुतभामिनी ॥ ५॥

कासारनाभिः का सा याऽऽप्येषेयत्ताविवर्जिता ।
अन्तिकस्थाऽतिदूरस्था…
bottom of page