top of page

शिवक्षेत्रमहिमा लक्ष्मीप्रोक्ता (शिवरहस्यान्तर्गता) | Lakshmiprokta Shiva kshetra mahima

लक्ष्मीप्रोक्ता शिवक्षेत्रमहिमा 

(शिवरहस्यान्तर्गते उग्राख्ये)
शिवक्षेत्रनिवासेन जायते पापसङ्क्षयः ।
पुण्यवृद्धिश्च भवति शिवक्षेत्रे शिवार्चनात् ॥ ५१॥

दुर्लभं तन् शिवक्षेत्रं शिवभक्तिश्च दुर्लभा ।
शिवक्षेत्रनिवासोऽपि दुर्लभो मुक्तिदायकः ॥ ५२॥

पुण्यवृद्धिकरं श्रेष्ठं शिवक्षेत्रे शिवार्चनम् ।
तद्भूरिपुण्यतपसा लभ्यते नात्र संशयः ॥ ५३॥

यः करोति शिवक्षेत्रे शिवलिङ्गार्चननं मुदा ।
स धन्य इति विज्ञेयः श्रेष्ठो जनिमतां नृणाम ॥ ५४॥

शिवैकरतचित्तानां शिवक्षेत्रनिवासिनाम् ।
महद्भाग्यं महद्भायं भाग्यस्यान्तो न विद्यते ॥…
bottom of page