top of page

शिवध्यानस्तुतिः लक्ष्मीविष्णूकृता (शिवरहस्यान्तर्गता) | Lakshmi vishnu krita shivadhyana stutih

लक्ष्मीविष्णूकृत शिवध्यानस्तुतिः 

(शिवरहस्यान्तर्गते सदाशिवाख्ये)
अथ ध्यानम्
ध्यायेन्नित्यं महादेवं साम्बं चन्द्रकलाधरम् ।
मृगटङ्कधरं सौम्यं लोचनत्रयभूषितम् ॥ १॥

नीलकण्ठं विरूपाक्षं रत्नसिह्मासनस्थितम् ।
फुल्लकल्हारमालाङ्कं दिव्यपीताम्बरावृतम् ॥ २॥

अनल्परत्नाकल्पेन शोभमानं महत्तरम् ।
स्वहृदुत्फुल्लपद्मस्थमेवं ध्यायन्त्स शङ्करम् ॥ ३॥

अथ स्तुतिः
सोमास्कन्द विभो त्वदीयविमलं रूपं सुधांशुस्फुर-
ज्जूटाहिस्फुटमौलिकाञ्चितमणिस्फाराङ्गरागोद्धतम् ।
त्र्यक्षं सौम्यसुधांशुकान्तिविलसत्तिर्यक्त्रिपुण्ड्राङ्कितं
वीक्षेऽक्षादिविदूरगं तव विभो वक्त्रं कटाक्षोदयम् ॥ ४॥

त्वत्पादाब्जमरन्दसुन्दरमहावीचीस्फुरन्मौलयो
वृन्दारद्युतिवृन्दवन्दितमहानन्दाम्बुधारास्पदम् ।
ध्यायं ध्यायमुपास्महे तव महापापौघभित्केवलं
युक्त्या किं मम साम्प्रतं तव विभो भक्तिं हि…
bottom of page