top of page

शिवोपासनोपदेशम् प्रदोषकाले (लक्ष्मीप्रोक्तं शिवरहस्यान्तर्गतम्) | Lakshmiproktam pradoshakale shivopasanopadesham

लक्ष्मीप्रोक्तं प्रदोषकाले शिवोपासनोपदेशम् 
- लक्ष्मीविष्णुसंवादे -
श्रीलक्ष्मीरुवाच -
सायङ्काले महादेवः पूजनीयोऽखिलैरपि ॥ ३२७॥

कुरु भस्मोद्धूलनादि सर्वपापविनाशकम् ।
बिल्वपत्रादि सम्पाद्य यज देवोत्तमं शिवम् ॥ ३२८॥

प्रणामानि(?) कुरु प्रीत्या शरणं व्रज शङ्करम् ।
सर्वेष्वपि प्रदोषेषु पूजनीयः सदा शिवः ॥ ३२९॥

इदानीं सप्तमीयोगो विशेषेणाद्य वर्तते ।
यः सप्तमीप्रदोषेषु शङ्करं पूजयिष्यति ॥ ३३०॥

न तस्य नरकावासो दारिद्र्यं च न सर्वथा ।
प्रदोषकाले भगवान् महादेवः…
bottom of page