top of page
श्रीलक्ष्मीस्तोत्रम् (देवैः कृतं १ स्कन्दपुराणान्तर्गतम् नमः श्रियै लोकधात्र्यै ब्रह्ममात्रे नमो नमः) | Devaih krritam 1 shri Lakshmi stotram
देवैः कृतं १ श्रीलक्ष्मीस्तोत्रम्
देवा ऊचुः ।
नमः श्रियै लोकधात्र्यै ब्रह्ममात्रे नमो नमः ।
नमस्ते पद्मनेत्रायै पद्ममुख्यै नमो नमः ॥ ९९॥
प्रसन्नमुखपद्मायै पद्मकान्त्यै नमो नमः ।
नमो बिल्ववनस्थायै विष्णुपत्न्यै नमो नमः ॥ १.९.१००॥
विचित्रक्षौमधारिण्यै पृथुश्रोण्यै नमो नमः ।
पक्वबिल्वफलापीनतुङ्गस्तन्यै नमो नमः ॥ १०१॥
सुरक्तपद्मपत्राभकरपादतले शुभे ।
सुरत्नाङ्गदकेयूरकाञ्चीनूपुरशोभिते ।
यक्षकर्दमसंलिप्तसर्वाङ्गे कटकोज्ज्वले ॥ १०२॥
माङ्गल्याभरणैश्चित्रैर्मुक्ताहारैर्विभूषिते ।
ताटङ्कैरवतंसैश्च शोभमानमुखाम्बुजे ॥ १०३॥
पद्महस्ते नमस्तुभ्यं प्रसीद हरिवल्लभे…bottom of page
