top of page

श्रीसूक्तं (पौराणीकम्) | Shri suktam pauranikam

श्रीसूक्तं पौराणीकम् 
देव्यभिषेके पौराणं श्रीसूक्तम् -
हिरण्यवर्णां हिमरौप्यहारां चन्द्रां त्वदीयां च हिरण्यरूपाम् ।
लक्ष्मीं मृगीरूपधरां (१) श्रियं त्वं मदर्थमाकारय जातवेदः ॥ १॥

यस्यां सुलक्ष्म्यामहमागतायां हिरण्यगोऽश्वात्मजमित्रदासान् ।
लभेयमाशु ह्यनपायिनीं तां मदर्थमाकारय जातवेदः ॥ २॥

प्रत्याह्वये तामहमश्वपूर्वां देवीं श्रियं मध्यरथां समीपम् ।
प्रबोधिनीं हस्तिसुबृंहितेनाहूता मया सा किल सेवतां माम् ॥ ३॥

कांसोस्मितां तामिहद्मवर्णामाद्रां सुवर्णावरणां ज्वलन्तीम् ।
तृप्तां हि भक्तानथ तर्पयन्तीमुपह्वयेऽहं…
bottom of page