top of page
श्रीस्तवः १ (पञ्चस्तव्याम् ५) | Shri stavah 1
श्री श्रीस्तवः
पञ्चस्तव्यां ५ श्रीस्तवः
श्रीगणेशाय नमः ।
स्वस्ति श्रीर्दिशतादशेषजगतां स्वर्गापवर्गस्थितीः
स्वर्गं दुर्गतिमापवर्गिकपदं सर्वं च कुर्वन्हरिः ।
यस्या वीक्ष्य मुखं तदिङ्गितपराधीनो विधत्तेऽखिलं
क्रीडेयं खलु नान्यथाऽस्य रसदा स्यादैकरस्यात्तया ॥ १॥
हे श्रीर्देवि समस्तलोकजननि त्वां स्तोतुमीहामहे
युक्तां भावय भारतीं प्रगुणय प्रेमप्रधानां धियम् ।
भक्तिं बन्धय नन्दयाश्रितमिमं दासं जनं तावकं
लक्ष्यं लक्ष्मि कटाक्षवीचिविसृतेस्ते स्याम चामी वयम् ॥ २॥
स्तोत्रं नाम किमामनन्ति कवयो यद्यन्यदीयान्गुणानन्यत्र
त्वसतोऽधिरोप्य भणितिः…bottom of page
