top of page

श्रीस्तवः २ | Shri stavah 2 | (Java)

श्रीस्तवः 

ॐ श्रीदेवी महावक्त्रा चतुर्वर्णा चतुर्भुजा ।
प्रज्ञावीर्यसार (रस)ज्ञेया चिन्तामणिकुरु स्मृता ॥ १॥

श्रीशालिकान्तरूपा त्वं स्निग्धगात्रं च तण्डुलम् ।
ददासि मे सदा चित्रं सौभाग्यं लोकपूजितम् ॥ २॥

श्रीताण्डुली महादेवी श्रीमल्(त्) कमलशोभिता ।
ददासि मे महाभोग्यं सर्वद्रव्यहितं धनम् ॥ ३॥

श्रीव्रीहिमुक्ताजीवा त्वं सर्वभूप(सु) नन्दिनी ।
ददासि मे सुखं नित्यं जीवितं धातुकाञ्चनम् ॥ ४॥

श्रीधन (धान्य) देविका रम्या सर्वरूपवती तथा…
bottom of page