top of page
श्रीस्तोत्रम् (अग्निपुराणान्तर्गतम्) | Shri stotram
श्रीस्तोत्रम्
अथाग्नेये षट्त्रिंशदधिकद्विशततमोऽध्यायः ।
पुष्कर उवाच -
राज्यलक्ष्मीस्थिरत्वाय यथेन्द्रेण पुरा श्रियः ।
स्तुतिः कृता तथा राजा जयार्थं स्तुतिमाचरेत् ॥ १॥
इन्द्र उवाच -
नमस्ते सर्वलोकानां जननीमब्धिसम्भवाम् । varसर्वभूतानां जीवनमम्बुसम्भवाम्
श्रियमुन्निन्द्रपद्माक्षीं विष्णुवक्षःस्थलस्थिताम् ॥ २॥
त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनि ।
सन्ध्या रात्रिः प्रभा भूतिर्मेधा श्रद्धा सरस्वती ॥ ३॥
यज्ञविद्या महाविद्या गुह्यविद्या च शोभने ।
आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी…bottom of page
