top of page

मनुस्मृति अध्याय-01

मनुस्मृति अथवा मानवधर्मशास्त्रम् अध्याय १
मनुमेकाग्रमासीनमभिगम्य महर्षयः ।
प्रतिपूज्य यथान्यायमिदं वचनमब्रुवन् ॥ १.१॥

भगवन् सर्ववर्णानां यथावदनुपूर्वशः ।
अन्तरप्रभवानां च धर्मान्नो वक्तुमर्हसि ॥ १.२॥

त्वमेको ह्यस्य सर्वस्य विधानस्य स्वयम्भुवः ।
अचिन्त्यस्याप्रमेयस्य कार्यतत्त्वार्थवित्प्रभो ॥ १.३॥

स तैः पृष्टस्तथा सम्यगमितोजा महात्मभिः ।
प्रत्युवाचार्च्य तान् सर्वान् महर्षींश्रूयतामिति ॥ १.४॥

आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् ।
अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः ॥ १.५॥

ततः स्वयम्भूर्भगवानव्यक्तो व्यञ्जयन्निदम् ।
महाभूतादि वृत्तोजाः प्रादुरासीत्तमोनुदः ॥ १.६॥

योऽसावतीन्द्रियग्राह्यः…
bottom of page