top of page

मनुस्मृति अध्याय-04

अध्याय ४
चतुर्थमायुषो भागमुषित्वाऽद्यं गुरौ द्विजाः  ।
द्वितीयमायुषो भागं कृतदारो गृहे वसेत् ॥ ४.१॥

अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः ।
या वृत्तिस्तां समास्थाय विप्रो जीवेदनापदि ॥ ४.२॥

यात्रामात्रप्रसिद्ध्यर्थं स्वैः कर्मभिरगर्हितैः ।
अक्लेशेन शरीरस्य कुर्वीत धनसञ्चयम् ॥ ४.३॥

ऋतामृताभ्यां जीवेत्तु मृतेन प्रमृतेन वा ।
सत्यानृताभ्यामपि वा न श्ववृत्त्या कदा चन ॥ ४.४॥

ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम् ।
मृतं तु याचितं भैक्षं प्रमृतं कर्षण…
bottom of page