top of page
मीनाक्षीषोडशोपचारस्तुतिः | Minakshi Shodashopachar stuti
श्रीमीनाक्षीषोडशोपचारस्तुतिः
इक्षुकोदण्ड पुष्पेषु पाशाङ ्कुशकरोज्ज्वलाम् ।
उद्यत्सूर्यनिभां वन्दे महात्रिपुरसुन्दरीम् ॥ १॥
श्रीमत्सुन्दरनाथस्य देवीं शफरलोचनाम् ।
कलये हृदये नित्यं कदम्बवनवासिनीम् ॥ २॥
बालार्कारुणपद्मपीठनिलयां वामादिशक्त्यावृतां
एलागन्धि सुकुन्तलां द्विनयनां हेमाम्बरालङ्कृताम् ।
वामे लम्बित दोर्लतां सुचरणां दक्षेधृतेन्दीवरां
श्यामाभां शरदिन्दुचारुवदनां वन्दे सुमीनेक्षणाम् ॥ ३॥
आगच्छ वरदे देवि सर्वसम्पत्प्रदायिनि ।
पूजां गृहाण सुमुखि नमस्ते शङ्करप्रिये ॥ ४॥
श्रीमीनाक्षि महाभागे रक्षार्थं मम सर्वदा ।
आवाहयाम्यहं देवि सर्वकामा…bottom of page
