top of page

मीनाक्षीसुप्रभातम् (अनन्तानन्दनाथविरचितम्) | Minakshi suprabhatam

श्रीमीनाक्षीसुप्रभातम् 
श्रीस्वामिशास्त्रिणा अनन्तानन्दनाथेन विरचितं
ॐ नमो भगवत्यै श्रीचन्द्रशेखरमूर्तये ।
सच्चिदानन्दरूपिण्यै स्वात्मबोधप्रपूर्तये ॥

श्रीमान् गजास्यो मधुरापुरस्थो लम्बोदरो मीनदृगात्मजो यः ।
त्रिप्रस्थपूर्णाकृतिमोदकाढ्यः क्रियाद्गणेशो मम सुप्रभातम् ॥ १॥

मातङ्गकन्येति कवीन्द्रवन्द्या विद्यावतीपुण्यफलप्रदा या ।
श्रीपाण्ड्यराजस्य सुता च साऽम्बा करोतु देवी मम सुप्रभातम् ॥ २॥

चिदग्निजाता मधुरापुरेशी पट्टाभिषिक्ता मलयध्वजेन ।
यया जिता दिक्पतयो नृपाश्च करोतु देवी मम सुप्रभातम् ॥ ३॥

या त्रिस्तनीशानजयाय गत्वा दृष्ट्वा…
bottom of page