top of page

मीनाक्षीस्तोत्रम् २ (गौरीं काञ्चनपद्मिनीतटगृहाम्) | Hymn to Goddess Minakshi

श्रीमीनाक्षीस्तोत्रम् २ 

गौरीं काञ्चनपद्मिनीतटगृहां श्रीसुन्दरेशप्रियां
     नीपारण्यसुवर्णकन्दुकपरिक्रीडाविलोलामिमाम् ।
श्रीमत्पाण्ड्यकुलाचलाग्रविलसद्रत्नप्रदीपायितां
     मीनाक्षीं मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥ १॥

गौरीं वेदकदम्बकाननशुकीं शास्त्राटवीकेकिनीं
     वेदान्ताखिलधर्महेमनलिनीहंसीं शिवां शाम्भवीम् ।
ओङ्कारम्बुजनीलमत्तमधुपां मन्त्राम्रशाखाम्बिकां
     मीनाक्षीं मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥ २॥

गौरीं नूपुरशोभिताङ्घ्रिकमलां तूणोल्लसज्जङ्घिकां
     रत्नादर्शसमानजानुयुगलां रम्भानिभोरूद्वयाम् ।
काञ्चीबद्धमनोज्ञपीनजघनामावर्तनाभीहृदां
     मीनाक्षीं मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥ ३॥

गौरीं व्योमसमानमध्यमयुतामुत्तुङ्गवक्षोरुहां
     वीणामञ्जुलशारीकान्वितकरां शङ्खाभकण्ठोज्ज्वलाम् ।
राकाचन्द्रसमानचारुवदनां रोलम्वनीलालकां
     मीनाक्षीं मधुरेश्व…
bottom of page