top of page
मीनाक्षीस्तोत्रम् ३ (चन्द्रशेखरभारतीश्रीचरणकृतम् मन्दस्मितोदञ्चितमञ्जुलास्याम्) | Minakshi stotram 3
श्रीमीनाक्षीस्तोत्रम्
मन्दस्मितोदञ्चितमञ्जुलास्यां कनन्निटालां वरकुङ्कुमेन ।
श्रीसुन्दरेशेन समं निशीथे प्रेङ्खाधिरूढां भज मीननेत्राम् ॥ १॥
दविष्ठलोकांश्च दयोर्मिलेन विलोकनेनैव विशालनेत्रा ।
मत्स्या इवार्भान्परिपालयन्ती डोलाविहारं तनुते झषाक्षी ॥ २॥
कृत्वा तपो दुश्चरमम्बिकायाः
माता भवामीति मनीषया या ।
प्राप्ता पुरा काञ्चनमालया सा
पाण्ड्याधिराज्ञी वितनोतु भव्यम् ॥ ३॥
दिव्यं रूपं दधाना ललिततररवैर्वेणुवीणादिजातैः
प्रापय्यान्तर्मुखत्वं निखिलजनमनांस्यात्मरूपं विवेक्तुम् ।
वृत्तीर्मोदादिरूपा अपि परिगलिताः कुर्वती ब्रह्मविद्या
…