top of page

क्षिप्रात्रिकम् (वासुदेवानन्दसरस्वतीविरचितम्) | kshipratrikam

श्रीक्षिप्रात्रिकम् 

क्षिप्रामक्षिप्रदां क्षीप्राभीष्टदां क्षीप्रतारिणीम् ।
क्षिप्रप्रसादनार्थं तां प्रपद्ये सुरवन्दिताम् ॥ १॥

यत्तीरेऽवन्तिकाख्याऽऽस्ते महाकालाभिधेशितुः ।
राजधान्याधिका काश्या मृता यत्रामृतं गताः ॥ २॥

चर्मण्वत्या युता याऽगात्पूर्वसागरमादरात् ।
प्रणता सम्मता देवैः क्षिप्रा देवी पुनातु माम् ॥ ३॥

इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीक्षिप्रात्रिकं सम्पूर्णम् ।

bottom of page