top of page
गंगा स्तुतिः ६ (श्रीधरस्वामीविरचिता श्रीहरेश्चरणाम्बुजनिःसृता मङ्गला शिवमस्तकशोभना) | ganga stuti 6
श्रीगङ्गास्तुतिः
श्रीहरेश्चरणाम्बुजनिःसृता मङ्गला शिवमस्तकशोभना ।
पावना भवदुःखविनाशिनी भक्तिदा सुखदा परमुक्तिदा ॥ १॥
पापहं भवतापविनाशकं शान्तिदं सुखदं परमुक्तिदम् ।
अम्ब ते सलिलं परमामृतं मज्जनं तव भूमि सुखात्मकम् ॥ २॥
किं वर्णयामि जगदम्ब तवात्र चित्रं
माहात्म्यमेतदतिशुद्धमनन्तवीर्यम् ।
शुद्धात्मभिः सकलविद्भिरपारकीर्तिः
संस्तूयते परमदिव्यपदैः पवित्रैः ॥ ३॥
प्रभातसमयच्छविस्तव शुभे महाह्लादिनी
मनः प्रशमनङ्करा सकलपावनी ज्ञानदा ।
सुरर्षिमुनिसेवितं तव तटं निमज्याप्सु त…bottom of page
