top of page
गंगा स्तोत्रम् ०६ (लक्ष्मणसोमयाजिविरचितम्) | ganga stotram 6
गङ्गास्तोत्रं ६
श्रीगणेशाय नमः ।
विचलकलविहङ ्गे विष्णुपादाम्बुसङ्गे
तटतरुरतभृङ्गे तीरचञ्चत्कुरङ्गे ।
विमलतरतरङ्गे विश्वनाथाञ्चिताङ्गे
सकलकलुषभङ्गे पाहि मां देवि गङ्गे ॥ १॥
जनेर्दूरे धीरे जननि तव तीरे स्थिरतरं
नरं धन्यं मन्ये हिमशिखरिकन्ये सुनिपुणम् ।
असौ वारं वारं जननमृतिभारं परिजहत्
स्वसंसारं सारं भवजलधिपारं हि भजति ॥ २॥
त्वदुत्सङ्गे गङ्गे विहरणविहङ्गे मयि मिलत्
कृपापाङ्गे सङ्गे तव वर…