top of page

गंगा स्तोत्रम् ०९ (कण्वमहर्षिणाकृतं ब्रह्मपुराणान्तर्गतम् नमोऽस्तु गङ्गे परमार्तिहारिणि) | kanva maharshinakritam Ganga stotram 09

कण्वमहर्षिणा कृतं गङ्गास्तोत्रम् ९ 

कण्व उवाच ।
नमोऽस्तु गङ्गे परमार्तिहारिणि नमः क्षुधे सर्वजनार्तिकारिणि ।
नमो महेशानजटोद्भवे शुभे नमो महामृत्युमुखाद्विनिःसृते ॥ ८॥

पुण्यात्मनां शान्तरूपे क्रोधरूपे दुरात्मनाम् ।
सरिद्रूपेण सर्वेषां तापपापापहारिणि ॥ ९॥

क्षुधारूपेण सर्वेषां तापपापप्रदे नमः ।
नमः श्रेयस्करि देवि नमः पापप्रतर्दिनि ।
नमः शान्तिकरि देवि नमो दारिद्र्यनाशिनि ॥ १०॥

ब्रहोवाच ।
इत्येवं स्तुवतस्तस्य पुरस्तादभवद्द्वयम् ।
एकं गाङ्गं मनोहारि ह्यपरं भीषणाकृति…
bottom of page